Sankatnashan Ganesh Ji Stotra - Narada Purana संकटनाशन गणेश स्तोत्र - नारद पुराण
.jpg)
Original Text (Narad Purana) नारद उवाच - प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरैनित्यंआयु:कामार्थसिद्धये ॥1॥ प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम । तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम ॥2॥ लम्बोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टकम् ॥3॥ नवमं भालचन्द्रं च दशमं तु विनायकम । एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥ द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: । न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो ॥5॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥ जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥8॥ ॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥ English Transliteration Nārad uvāch - Praṇamyā shirasā devam gaurīputram vināyakam । Bhaktāvāsam smarainityanmāyu:kāmārthasiddhaye ॥1॥ Prathaman vakratuanḍam ch ekadantan dvitīyakam । Tṛitīyam kṛuṣhṇan pinākṣham ...